(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.102. अध्यायः 102
Mahabharata - Bhishma Parva - Chapter Topics
द्रोणार्जुनयुद्धं भीमसेनपराक्रमश्च ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

धृतराष्ट्र उवाच। 6-102-0x(4192)(43376)
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः ।
समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ ॥ 6-102-1(43377)
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः ।
आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय ॥ 6-102-2(43378)
तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ ।
कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ ॥ 6-102-3(43379)
सञ्जय उवाच। 6-102-4x(4193)
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः ।
क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे ॥ 6-102-4(43380)
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् ।
निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह ॥ 6-102-5(43381)
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः ।
नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि ॥ 6-102-6(43382)
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे ।
स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः ॥ 6-102-7(43383)
ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः ।
छादयामास राजेन्द्र नचिरादेव भारत ॥ 6-102-8(43384)
ततो दुर्योधनो राजा सुशर्माणमचोदयत् ।
द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात् ॥ 6-102-9(43385)
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् ।
छादयामास समरे पार्थं बाणैरयोमुखैः ॥ 6-102-10(43386)
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे ।
हंसा इव महाराज शरत्काले नभस्तले ॥ 6-102-11(43387)
ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो ।
फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः ॥ 6-102-12(43388)
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः।
त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः ॥ 6-102-13(43389)
ते वध्यमानाः पार्थेन कालेनेव युगक्षये ।
पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः ।
मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति ॥ 6-102-14(43390)
शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः ।
प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः॥ 6-102-15(43391)
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् ।
विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम् ॥ 6-102-16(43392)
यदेको वारयामास मारुतोऽभ्रगणानिव ।
कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः ॥ 6-102-17(43393)
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत।
मुमोचास्त्रं महाराज वायव्यं पृतनामुखे ॥ 6-102-18(43394)
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् ।
पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान् ॥ 6-102-19(43395)
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्।
शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह ॥ 6-102-20(43396)
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप।
प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश ॥ 6-102-21(43397)
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् ।
निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान् ॥ 6-102-22(43398)
ततो दुर्योधनश्चैव कृपश्च रथिनां वरः।
अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः ॥ 6-102-23(43399)
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः ।
महता रथवंशेन पार्थस्यावारयन्दिशः ॥ 6-102-24(43400)
तथैव भगदत्तश्च श्रतायुश्च महाबलः।
गजानीकेन भीमस्य ताववारयतां दिशः ॥ 6-102-25(43401)
भूरिश्रवाः शलश्चैव सौबलश्च विशांपते ।
शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन् ॥ 6-102-26(43402)
भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः ।
युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत् ॥ 6-102-27(43403)
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः।
लोलिहन्सृक्किणी वीरो मृगराडिव कानने ॥ 6-102-28(43404)
भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे ।
अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत् ॥ 6-102-29(43405)
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः ।
परिवव्रू रणे यत्ता भीमसेनं समन्ततः ॥ 6-102-30(43406)
गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत।
मेघजालस्य महतो यथा मध्यगतो रविः ॥ 6-102-31(43407)
व्यधमत्स गजानीकं गदया पाण्डवर्षभः ।
महाभ्रजालमतुलं मातरिश्वेव सन्ततम् ॥ 6-102-32(43408)
ते वध्यमाना बलिना भीमसेनेन दन्तिनः ।
आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव ॥ 6-102-33(43409)
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः ।
फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि ॥ 6-102-34(43410)
`सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः।'
वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि ॥ 6-102-35(43411)
विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्।
विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत् ॥ 6-102-36(43412)
विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् ।
पातयामास समरे दण्डहस्त इवान्तकः ॥ 6-102-37(43413)
शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः ।
कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत ॥ 6-102-38(43414)
एवं के वध्यमानाश्च हतशेषा महागजाः ।
प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम् ॥ 6-102-39(43415)
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ।
दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम् ॥ 6-102-40(43416)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि नवमदिवसयुद्धे द्व्यधिकशततमोऽध्यायः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.